ट्रांस्लेशन टुडे
A Biannual Double-blind Peer-reviewed refereed UGC Approved Journal

रा.अ.मि. इत्यनेन प्रकाशिता ट्रांस्लेशन टुडे इति नाम्नी अर्द्धवार्षिकी पत्रिका अस्ति या अनुवादसम्बद्धमालेखं विषयवस्तुं च विदधाति। इयं विषयविशेषज्ञैः समीक्षिता अन्ताराष्ट्रिया शोध-पत्रिका अस्ति यस्यां अनुवादाध्ययनस्य तत्सम्बद्धविषयाणामालेखाः विदुषां व्यावसायिकानामनुवादकानां साक्षात्कारादयश्च समीक्षा च प्रकाशिताः भवन्ति। इयं उदीयमानानामनुवादकानां प्रशिक्षणार्थं विदुषां मध्ये शैक्षणिकपरिचर्चानामादान-प्रदानयोः मञ्च इव कार्यं करोति। अनेन अनुवादकाः नवीनसम्भावनायाः अन्वेषणे तेन सम्बद्धं सामाजिकदायित्वं च निर्वाहयितुं साहाय्यं लप्स्यन्ति।
 

ई-पत्रम्

ट्रांसलेशन टुडे इति नाम्नी शोधपत्रिका अनुवादाध्ययने नवीने विषये योगदानं कृत्वा अनेन सम्बद्धानामालेखान् भारतीयभाषाणां भारतीयभाषासु वास्तविकमनुवादं प्रकाश्य विषयं संवर्द्धयितुं प्रस्ताविता अस्ति।

ट्रांसलेशन टुडे अनुवादसम्बद्धानां विशदानामालेखानाम् अनुवादसम्बद्धानाम् ऊहापोहानां प्रश्नानां विश्लेषणात्मकसमस्यानां प्रकाशनं करिष्यति। नेदमावश्यकं यत् सर्वेषां समाधानमपि तत्र प्रकाशितं भवेत्। आलेखः, अनुवादः, अनूदितसंस्करणानां समीक्षा, मूलं, अनुवादः, संपादकं प्रति पत्रं, ट्रांसलेशन टुडे इति कृते त्वरितान्वेषणविकल्पः, अनुवादकानां तालिका, सहयोगिनां लेखकानां च विषये सूचनाः प्रदास्यन्ते। भविष्ये अनुवादकानां कृते पण्यवीथी-संभावना, अनुवादानुप्रयोगस्य (साफ्टवेयर इति) विपणिः, अन्यान्यविषयेषु च सूचनाश्चात्र योजनीयाः। भारतीयभाषाभ्यः भारतीयभाषासु अनुवादकार्ये समापतितानां सामान्यसमस्याः येषां जटिलता चात्र विशेषतया ध्येयाः सन्ति। यद्यपि इयं शोधपत्रिका केवलं भारतीयभाषाभिः सम्बद्धेषु विषयेषु सीमिता न भविष्यति। यथा व्याकरणिक-पद्धतिः भारते नास्ति तथा अनुवादः अपि भारते अन्येषु च विकासशीलदेशेषु नास्ति नवीनः।

एवंविधाः बहुभाषाभाषिणो देशाः अनुवादकानां कृते स्वप्नाधारभूताः सन्ति।
  » वयं अनुवादगतिविधौ त्वरामिच्छामः।
  » वयं अनुवादाध्ययनं अतोपि व्यापकं कर्तुमिच्छामि।
  » We seek excellence in the translated word