| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
         
         
                    
                         
    
        
            
                
                    1. रा.अ.मि. इत्यस्य अङ्गत्वेन कथमहं स्याम् ? रा.अ.मि. इत्यस्मिन्
                        अनुवादकत्वेन कथमहं पञ्जीकृतः स्याम्? स्नातककक्षायाः छात्रत्वेन कथमहं रा.अ.मि. इत्यस्मिन्
                        पञ्जीकृतः स्याम्? 
                     
                    उत्तरम्: स्वजीवनवृत्तम् अनेन परिसन्धिना समर्पयतु।
                    
                        http://www.ntm.org.in/languages/english/login.aspx. भवन्तः अस्माकं संदेशं
                    शीघ्रमेव प्राप्स्यन्ते।
                     
                     
                    2.अहम् अमुकपुस्तकस्य अनुवादं कर्तुं प्रकाशयितुं च इच्छामि।
                        रा.अ. मि. इत्यस्य अधीने कथमहं कार्यं कर्तुं शक्नुयाम्? 
                     
                    उत्तरम्: स्वपरियोजनायाः विस्तृतविवरणेन सह स्वकार्यस्य
                    उदाहरणं अस्मान् प्रेषयतु। अस्माकं समितिः अस्य परीक्षणं कृत्वा विशेषज्ञस्य अभिमतं
                    भवन्तं प्रेषयिष्यति।
                     
                     
                    3. रा.अ.मि. इत्यन्न सम्बद्धतायाः कः मानदण्डः अपेक्षितः ?
                    
                     
                    उत्तरम्:रा.अ.मि. इत्यत्र अनुवादकानां चयन-प्रक्रिया
                    अभूतपूर्वा वर्तते। लक्ष्यभाषायां स्रोतभाषायां च भवतां दक्षताम् अवधिसीम्नः च परिपालनक्षमतां
                    विहाय भवद्भिः न काचिदपेक्षा क्रियते। रा.अ.मि. इत्यस्य भाविनामनुवादकानां कृते अर्हतायाः
                    वयसो स्थानस्य च न काचिदपि सीमा वर्तते।
                     
                     
                    4. मम स्थानकृते बाध्यता अस्ति। किमहम् तथापि रा.अ.मि. इत्यनेन
                        सम्बद्धः स्याम्।
                     
                    उत्तरम्: रा.अ.मि. इत्यस्य संरचनायाम् एव उद्योगतया
                    अनुवादस्य संवर्द्धनं अनुवादकार्ये उत्साहवतां समुत्प्रेरणं च वर्तते।अस्यां परियोजनायां
                    स्थानस्य बाध्यतासदृशी न काचिदपि बाधा वर्तते। संसारे कस्मिंश्चिदपि भागे भवन्तः अनया
                    परियोजनया युक्ताः भवितुमर्हन्ति।
                     
                     
                    5. बहुसञ्चारानुवादः इति कीदृक् भवति ? 
                     
                    उत्तरम्: सामान्यतः लिखितानां मौखिकानां वा अभिलेखानां
                    अनुवादो व्याख्या वा भवति। आभ्यां बहिर्भूताः सर्वे अनुवादाः बहुसञ्चारानुवादे (मल्टीमीडिया
                    अनुवादे) समापतन्ति। उदाहरणार्थं कथावाचनं पार्श्वस्वररूपेण सेवाप्रदानं अपि च उपशीर्षकाणाम्
                    अनुवादः अन्तर्जालपचलस्यानुवादः बहुभाषिकं संगणकसंचालितं प्रकाशनं इत्यादयः एतदन्तर्गताः
                    समापतन्ति।
                     
                     
                    6. अपि पार्श्वस्वरसेवाप्रदानं कथावाचनं च भवतां परियोजनायां
                        संगृह्येते। 
                     
                    उत्तरम्: भारतीय भाषा संस्थान इत्यनेन एतादृश्यो बह्व्यः
                    परियोजनाः प्रस्तुताः वृत्तचित्राणि च निर्मितानि येषु पार्श्वस्वरस्य कथावाचनस्य च
                    प्रयोगः कृतः।एनां प्रक्रियां. सम्पादयितुं संस्थानपरिसरे सुसज्जिता यन्त्रशाला (स्टूडियो)
                    अपि वर्तते। कस्याञ्चित् परियोजनायां यदि अस्या आवश्यकता भवति तर्हि रा. अ. मि. इति
                    अस्याः उपयोगं करोति।
                     
                     
                    7. अपि कस्यचिदनुवादकोपकरणस्यापि प्रयोगः क्रियते भवद्भिः?
                     
                    उत्तरम्: रा.अ.मि. इत्यस्य प्रयोजनेषु शब्दकोषस्य, अनुवादकानां
                    कृते तन्त्रांशस्य शब्दजालस्य (वर्डनेट इत्यस्य) च निर्माणं संगृहीतमस्ति। एतानि उपकरणानि
                    तेभ्यः उपलब्धीक्रियन्ते येषामेभिः साहाय्यं भविष्यति।
                     
                     
                    8. अनुवादार्थम् अस्माभिः कीदृशः आरूपः ग्राह्यः स्यात्?
                    
                     
                    उत्तरम्:
                     
                     
                    9. अनुवादार्थं व्यय-प्राक्कलनं कथं ज्ञातं भवेत् 
                     
                    उत्तरम्:
                     
                     
                    10. अपि चयनितानामनुवादकानां कृते कश्चिद् वर्तते पाठ्यक्रमः?
                    
                     
                    उत्तरम्: रा.अ.मि. इत्यस्यप्राथमिकेषु प्रयोजनेषु अनुवादकानां
                    कृते प्रशिक्षणकार्यक्रमाः संरचिताः ह्यतः अनुवादार्थं विशिष्टप्रशिक्षणस्यावश्यकता
                    भवति। रा.अ.मि. इति भाविनांम् अनुवादकगानां कृते अल्पावधि-प्रशिषणकार्यक्रमाः अनुवादकानां
                    कृते पाठ्याभिविन्यासः पिटकश्च (पैकेज इति), अनुवाद-प्रौद्योगिकतायै विशेषपाठ्यक्रमस्य
                    च विकासार्थं प्रोत्साहनं सहयोगः सहायता च, शोधपरियोजनानां कृते प्रोत्साहनं अध्येता-वृत्तिसंस्थापनं,
                    कार्यशालानां आयोजनम् इत्येतेषां कृते प्रवर्तेत यैः अनुवादकाः पुनरीक्षणे संपादने
                    प्रतिलिपिसंपादने च साहाय्यं प्राप्नुयुः।
                     
                     
                    11. किमहं स्वकीयरुचिमधिकृत्यपुस्तकानुवादं कर्तुं शक्नोमि?अथवा
                        रा.अ.मि. इत्यनेन स्वरुचिना पुस्तकस्य चयनं क्रियते? 
                     
                    उत्तरम्: रा.अ.मि. इत्यस्य ज्ञानपाठ्यसूचनाभाण्डारेणैव
                    अनुवादसामग्रीम् उपलब्धां कारयति।
                 | 
             
            
                | 
                     
                 | 
             
         
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |