अनुवादकानां प्रमाणनम् प्रशिक्षणञ्च

यथोक्तं परियोजनायाः विस्तृते विवरणे यत् देशे अनुवादकार्यस्य स्वतन्त्र-व्यवसायत्वेन संस्थापने रा.अ.मि. इत्यस्य योजना वर्तते- अनुवादकानां प्रमाणनम्। रा.अ.मि. इत्यस्य मान्यता अस्ति यत् अनेन अनुवादकानां कृते विस्तृत परिदृश्यस्य संस्थापनं भविष्यति।

रा.अ.मि. इति अनुवादकानां राष्ट्रियां पञ्जिकां धत्ते यस्यां 5000 तः अपि अधिकाः अनुवादकाः पञ्जीकृताः सन्ति रा.अ.मि. इत्यनेन राष्ट्ेव बहुत्र विविधभाषाणां विषयाणां च विशेषज्ञैः संङ्गच्छता अनुवादकानां कृते बहबः अभिविन्यास-कार्यक्रमाः आयोजिताः विशेषज्ञेभ्यश्च प्रतिपुष्टिर्लब्धा।

सम्प्रति रा.अ.मि. इति अनुवादकानां प्रमाणनेन प्रशिक्षणेन च सम्बद्धैः विद्वद्भिः संस्थाभिश्च यथा इग्नू इत्यस्य अनुवाद-सह-प्रशिक्षण विभागेन, गुणवत्ता नियन्त्रण परिषद् (क्यू.सी.आइ.) इत्यादिभिः वार्तायां सन्नद्धः अस्तिओ रा.अ.मि. इत्यनेन एतदर्थं विविधसंस्थाभ्यः अभिकरणेभ्यश्च समागतैः विशेषज्ञैः प्रतिनिधिभिश्च गम्भीरः विचार-विमर्शः कृतः। प्रमाणनस्य पद्धतिः दिशा च शीघ्रमेव अन्तर्जाले संसूचिता भविष्यति।

रा.अ.मि. इत्यनेन अनुवाद-प्रशिक्षण कार्यक्रमाणां विकासार्थं एका योजना विधीयते। रा.अ.मि. इति देशे विदेशे च पूर्वस्मात् प्रचलितानां पाठ्यक्रमाणां विषयवस्तूनां च ज्ञानं संकलयति। रा.अ.मि. इति बहुभिः सङ्गठनैः विशेषज्ञैश्च साकं प्रशिक्षण-कार्यक्रममभिकल्पयति। आगामिकाले देशव्यापि-प्रशिक्षणकार्यक्रमस्य प्रारम्भो भविष्यति।