पारिभाषिकशब्दावली

पाठ्यपुस्तकानामनुवादकार्ये प्रथमं अभियान्त्रिकवैज्ञानिकशब्दानामनुवादः तेषां मानकीकरणञ्च आवश्यकमस्ति।अधुनातनं भारतीयभाषासु शब्दानामुपयोगे समरूपता न विद्यते। काश्चिद् भाषाः यथा तमिऴ, बंगला इत्यादिषु एकाधिकाः कोषाः उपलभ्यन्ते परं अन्यासु कतिपयासु शब्दावली नास्त्येव। रा.अ.मि. अभियान्त्रिकशब्दावल्याः मानकीकरणे वैज्ञानिक एवं तकनीकी शब्दावली आयोग इत्यनेन सह मिलित्वा कार्यं करोति। रा.अ.मि. इत्यस्य एभिः प्रयासैः वैज्ञानिक एवं तकनीकी शब्दावली आयोग इति संस्थानं 22 भारतीयभाषासु वैज्ञानिकाभियान्त्रिकशब्दानां परिष्कारे परिभाषितीकरणे च दृढता भविष्यति येन पाठ्यपुस्तकानां त्वरितः स्तरीयः च अनुवादः भवेत्।