| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
         
         
                    
                         
    
        
            
                | 
                    रा. अ.मि. इत्यनेन पञ्चसंख्यकाः सूचनाभाण्डाराः निर्मिताः। ते सन्ति अनुवादकानां राष्ट्रिया
                    पञ्जी, भारतीयविश्वविद्यालयानां सूचनाभाण्डारः, प्रकाशकानां सूचनाभाण्डारः, विषयविशेषज्ञानां
                    विशेषज्ञानां वा संग्राहकः, अनूदितग्रन्थानां सूचनाभाण्डारः शब्दकोषाणां शब्दावलीनां
                    भाण्डारः यश्च न केवलं रा. अ. मि. इत्यस्य कार्ये सहायकः भवति किन्तु विद्वद्भ्यः प्रकाशकेभ्यः
                    छात्रेभ्यः अनुवादकेभ्यश्च सहायको भवति। एते सूचनाभाण्डाराः भारतीयभाषासु अनुवादकानां
                    प्रमुखविश्वविद्यालयानां तेषु पाठ्यक्रमाणां विविधविषयविशेषज्ञानां भारतीयभाषासु प्रतिष्ठितप्रकाशनालयानां
                    विविधभाषासु अनूदितानां पुस्तकानां शब्दकोषाणां शब्दावलीनां विश्वकोषाणां च ज्ञानं
                    प्रददति। एते सूचनाभाण्डाराः छात्रेभ्यः शोधच्छात्रेभ्यः विविधविषयाणां प्राध्यापकेभ्यः
                    अतिशयेन सहायकाः भविष्यन्ति।
                 | 
             
         
        
     
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |