| 
         
         
         
         
                
    
                
                
                
                
                
                
                    
                    
                     
                    
             
              | 
             
        
               
                
                 
         
         
         
         
            
    
         
         
                    
                         
        
            
                
                    ‘राष्ट्रिय अनुवाद मिशन’ इति सामान्येन अनुवादकार्यमुद्योगतया संस्थापयितुं विशेषतस्तु
                    समुपलब्धानि ज्ञान-पाठ्यानि छात्रेभ्यः शिक्षाविद्भ्यश्च भारतीयासु भाषासु उच्चशिक्षार्थं
                    संप्रेषणे सौविध्य-प्रदानार्थं भारत-सर्वकारीया योजना अस्ति। भाषाजनितावरोधं विखण्ड्य
                    ज्ञानवतः समाजस्य निर्माणमस्य दृष्टिः। भारतीय-संविधानस्य अष्टमानुसूच्यां समुल्लिखितासु
                    भाषासु अनुवादमाध्यमेन ज्ञानस्य प्रसारः रा. अ. मि. इत्यस्य उद्देश्यः।
                     
                     
                    समवेतप्रयासैरनुवादकानां प्रशिक्षणं, प्रकाशकानाञ्च अनूदितसाहित्यस्य प्रकाशने प्रोत्साहनं,
                    एकस्याः भारतीयभाषायाः अपरासु भारतीयभाषासु अनूदित-साहित्यसामग्रीभाण्डारस्य अद्यतनीकरणमित्यादिभिः
                    कार्यैः अनुवादकार्यसम्बद्धानां सर्वेषां क्रियाकलापानां निष्पादकस्थलत्वेन अस्यावधारणा
                    वर्तते। एभिः प्रयासैः रा. अ. मि. इति अनुवादकार्यमुद्योगस्वरूपं स्थापयितुमिच्छति।
                    आशासे यत् अनुवादमाध्यमेन नवीनां पारिभाषिकशब्दावलीं संवादशैलीञ्च विकसितां कृत्वा
                    भाषाणामाधुनिकीकरणं सुलभं भविष्यति। अस्यामाधुनिकीकरणप्रक्रियायाम् विशेषरूपेण भारतीयभाषाणां
                    शैक्षिके परिदृश्ये अनुवादकानां महती भूमिका भविष्यति।
                     
                     
                    अनुवादकार्यस्य उद्योगत्वे संस्थापने लक्ष्ये ज्ञानपाठ्यानामनुवादः प्रारम्भिकः पदाक्षेपः
                    वर्तते। ज्ञानप्रसारे उपयोगिन्यः सर्वाः पाठसामग्र्यः रा. अ. मि. इत्यत्र ज्ञान-सामग्री
                    इत्यभिधीयते। सम्प्रति राष्ट्रिय अनुवाद मिशन इति उच्चशिक्षणसम्बद्धाः शैक्षणिकसामग्र्यः
                    द्वाविंशतिसु अपि भारतीयासु भाषासु अनूदिताः कारयति। मूलतः आङ्ग्लभाषायां समुपलब्धस्य
                    ज्ञानस्य बृहद्भाण्डागारस्य भारतीयभाषासु अनुवादं कारयित्वा पाठ्यपुस्तकरूपेण सुलभीकरणं
                    राष्ट्रिय अनुवाद मिशन इत्यस्य उद्देश्यः वर्तते। इदमपेक्ष्यते यत् इयं प्रक्रिया अन्ततः
                    ज्ञानसम्पन्नसमाजनिर्माणस्य दिशं निर्नेष्यति।
                 | 
             
         
         
        
                
                
            
                     
                        
                    
                    
                    
                    
                     | 
                     
                     
                    
                 
                
                |