गोपनीयता नीतिः

राष्ट्रियानुवादमिशन (मिशन) इति भवतां गोपनीयतां संरक्षितुं प्रतिबद्धः अस्ति। कृपया अस्माकं गोपनीयतानीतिं पठन्तु अवगन्तुं प्रयासं च कुर्वन्तु यत् केन प्रकारेण मिशन इत्यस्य अन्तर्जालपटलस्य www.ntm.org.in इत्यस्य दर्शकेभ्यः उपयोगकर्तृभ्यश्च प्राप्तानां सूचनानां वयं व्यवहारं कुर्मः भवतां च वैयक्तिकीं सूचनां रक्षामः।

अस्य अन्तर्जालपटलस्य उपयोगं कृत्वा भवन्तः उद्घोषयन्ति यत् अस्य उपयोगनीति-सम्बन्धिनीं प्रतिबद्धताम् स्वीकृत्य वैयक्तिकसूचनायाः संग्रहणस्य संरक्षणस्य चेत्यादीनां सम्मतिं प्रददति।
 

Information that we collect from you

वयं भवतां विषये सूचनां संदधामः
  » यदा भवन्तः पञ्जीकरणार्थं अस्माभिः सम्पर्कं कुर्वन्ति जिज्ञासावशात् आस्माकं अन्तर्जालपटलमाध्यमेन अस्माभिः सम्पर्कं कुर्वन्ति, स्वविषयं सूचनाः प्रददति यथा- नाम, सम्पर्कविवरणं ई-मेल संकेतः इत्यादयः।
  » शोधसर्वेक्षणार्थं यदा भवन्तः अस्माकं प्रश्नानुंत्तरं प्रददति।
  » सूचनाभाण्डारस्य (डाटावेस इत्यस्य) निर्माणार्थं संरक्षणार्थं वा यथा- विश्वविद्यालयानां सूचनाभाण्डारः, अनुवादकानां राष्ट्रिया पञ्जी, प्रकाशनाकानां सूचनाभाण्डारः अनूदितानां ग्रन्थानां सूचीभाण्डारः, संकायभाण्डारः विशेषज्ञानां सूचनाभाण्डारः शब्दकोषाणां शब्दावलीनां च सूचना भाण्डारः इत्यादयः।
 

भवद्भिः प्रदत्तानां सूचनानाम् उपयोगः

We use your information:
  » भवद्भिः याचितानां सूचनानां, सेवानां सामग्रीणाञ्च आपूर्त्यर्थम्।
  » अस्मिन् अन्तर्जालपटले प्रदत्तानां सूचनानां समुचितरूपेण प्राकट्यम् भवतां संगणकयन्त्रे विनिश्चेतुम्।
  » समाहृतानां सूचनानां विश्लेषणं कृत्वा अन्तर्जालपटलस्य प्रबन्धनाय, संरक्षणाय, संवर्द्धनाय संशोधनाय च।
  » निवेदने सति सूचनानां सामग्रीणां सेवानां च प्रदानार्थं, यदि प्रतीयते चेद् यत् इमे भवद्भ्यः रोचन्ते अथ च तत्प्रदानार्थं भवद्भिः वयमनुमताश्च स्मः।
  » अस्माभिः प्रदत्तासु कासुचिदपि सेवासु परिवर्तनं सूचयितुम्।
 
वयं पत्रालयमाध्यमेन दूरभाषमाध्यमेन, दूरभाषिकपत्राचारमाध्यमेन ई-मेल माध्यमेन दूरभाषिकसंक्षिप्तसूचनामाध्यमेन भवद्भिः सह सम्पर्कं कर्तुं शक्नुमः। भवन्तः एभिः माध्यमैः यदि सम्पर्कं नेच्छन्ति चेत् तर्हि सूचना प्रदातव्या।
 

भवद्भिः प्रदत्तानां सूचनानां भण्डारणम्

यत्र अस्माभिः कूटसङ्केताः प्रदत्ताः (भवद्भिः वा सुनिश्चिताः) तथा च अन्तर्जालपटलस्य कस्याश्चित् अपि विशिष्टसेवायाः उपयोगार्थं भवन्तः कूटसङ्केताः अपेक्ष्यन्ते तत्र तत्र च कूटसङ्केतस्य गोपनं संरक्षणं च भवतां दायित्वम्। अयं कूटसङ्केतः कैश्चिदपि न संभाजितव्यमिति निवेद्यन्ते भवन्तः।

दुर्भाग्यतया अन्तर्जालमाध्यमेन सूचनानां सम्प्रेषणं पूर्णतया सुरक्षितं न भवति। यद्यपि वयं भवतां वैयक्तिकीं सूचनां संरक्षितुं यथासाध्यं प्रयत्नवन्तः स्मः परं अन्तर्जालपटलमाध्यमेन सूचनानां सम्प्रेषणे सुरक्षणे निर्व्यूढतां प्रदातुं न शक्ताः वयम् तस्मात् किञ्चिदपि सम्प्रेषणं भवद्भिः स्वयमेव निराशङ्कनीयम्।
 

भवद्भिः प्रदत्तानां सूचनानां प्राकट्यम्।

मिशन इत्यस्य प्राधिकृताः कर्मचारिणः भवतां सूचनाः प्रति गन्तुं शक्नुवन्ति। वयं च भवद्भिः प्रदत्ताः सूचनाः अन्यैः अस्माकं कृते कार्यरतैः अस्माभिश्च स्थापिते नीति-नियमने समापतितैश्च तृतीयपक्षैः सह संभाजयितुं शक्नुमः। अथापि, तेषु तेषु संभाजयितुं शक्नुमः येषां कृते भवद्भिः वयमधिकृताः स्मः।

भवद्धिः प्रदत्तानां सूचनानां उपयोगश्च अन्यैः तृतीयपक्षैः अस्माकं गोपनीयता-नियमनान्तर्गतमेव स्यादिति वयं सदा विनिश्चयं कुर्मः।

आवश्यके सति अथवा विधि-सम्मतां आवश्यकतां वा विहाय तदतिरिक्तं वयं भवद्भिः प्रदत्तानां सूचनानां सहभागं तेषां विक्रयं तेषां वितरणं वा भवताम् अनुमतिं विना न कुर्मः इति।
 

संगणकस्य अन्तर्जालसंख्यासङ्केतः (आइ.पी. सङ्केतः) सम्प्रेषणसङ्केतकः (कुकीज) इति वा।

वयं भवतां सङ्गणकयन्त्रस्य, सङ्गणके अन्तर्जालसंख्यासङ्केतस्य, भवतां सङ्गणकयन्त्राणां संचालनप्रणालीनां वा अन्तर्जालसंकर्षकानां (ब्राउजर) विषये वा सूचनाः समाहर्तुं शक्नुमः। इयं सूचना प्रयोक्तुः अन्तर्जालसंकर्षकाणां प्रयोगविषये पद्धति विषये वा संख्यात्मिका सामग्री भवति यया व्यक्तिविशेषस्य प्रत्यभिज्ञानं न भवति। अस्याः प्रयोगः अन्तर्जालपटलस्य अनुशासने संशोधने समग्रप्रतिवेदननिर्माणकाले च भवति। प्रतिवेदनं चेदं तृतीयपक्षेभ्यः अन्येभ्यः प्रदीयते।

वस्तुतः एभिरेव कारणैः वयं सामान्यतया अन्तर्जालस्य प्रयोगविषये भवतां संगणकयन्त्रे स्थायिनि प्रकोष्ठे (हार्ड ड्राइव इति) संस्थितानां वितरकसंगणके प्रेषितव्यानां पञ्जिकानां माध्यमेन ज्ञातुं शक्नुमः। अनेन वयं अन्तर्जालपटले भवतां गतिविधिं निरीक्ष्यामहे इदञ्च जानीमः यत् भवन्तः प्रयोक्तारः अस्माकम् अन्तर्जालपटलस्य उपयोगः केन प्रकारेण कुर्वन्ति अथ च उपयोगितायाः निर्धारणं कथं वा सम्भवेदिति। अस्यां प्रक्रियायां भवतां व्यक्तिगताः सूचनाः न समाह्रियन्ते।
 

सुरक्षा

सुरक्षात्मकैः उपायैः भवद्भिः प्रदत्ताः सूचनाः अनधिकृतेभ्यः जनेभ्यः परिवार्य असंवैधानिकप्रयोगेभ्यः आकस्मिकेभ्यः अतिपातेभ्यः क्षतेभ्यः आघातेभ्यश्च संरक्ष्यन्ते।

भवद्भिः प्रदत्तानां सूचनानाम् अद्यतनीकरणे कृपापूर्वकं साहाय्यं करणीयम् यदि चेद् भवद्भिः ई-मेल इति पत्राचारसङ्केत इति वा परिवर्तितः।
 

गोपनीयता-नये परिवर्तनम्।

वयं अस्मिन् गोपनीयता-नये काले काले संशोधनं कर्तुं शक्नुमः। यदि एवं संशोधनं क्रियते चेद् अन्तर्जालपटले सूचना प्रदास्यते।
 

भवताम् अधिकाराः

अस्माकम् अभिलेखे संरक्षितानां भवद्भिः प्रदत्तानां सूचनानां प्रतिलिपिः भवन्तः याचितुं शक्याः इति भवतामधिकारः। इयं प्रतिलिपिः अल्पेन शुल्केन प्रदातव्या अस्माभिः।

अयम् अन्तर्जालपटलः काले काले तृतीयैः पक्षैः अन्यैः सह अन्तर्जालपरिसन्धीनां सहभागित्वं तैः च प्रदत्तानां परिसन्धीनां उपयोगं च करोति। अत्र ध्यातव्यं यत् यदि भवन्तः कस्याश्चिदपि परिसन्धेः उपयोगं कुर्वन्ति चेत् सर्वेषाम् अन्तर्जालपटलानां स्वकीया गोपनीयता नीतिः भवति। वयम् एताषां नीतीनां विषये किञ्चिदपि दायित्वं देयत्वं वा न स्वीकुर्मः। कृपया कस्याश्चिदपि व्यक्तिगतायाः सूचनायाः प्रदानात् पूर्वं नीतयः परीक्षणीयाः।