ग्रन्थसूचिकायाः इतिहासः

अनुवादस्य ग्रन्थसूचीसूचनाभाण्डारस्य आवश्यकता चिरकालात् अनुभूयते स्म। Anukriti.net इति सदृशं अनुवादप्रदातारं सूचनां च आधिकृत्य अतर्जालस्यपटलस्य विकासः 2002 तमे वर्षे भारते त्रिभिः संस्थानैः यथा भारतीय भाषा संस्थानम्, साहित्य अकादमी नेशनल बुक ट्रस्ट इत्येतेभिःकृतः। 20,000 संख्यकानां शीर्षकाणां संकलनं कृत्वा अनुकृति इत्यस्याधीनं एकस्य अन्वेषणयानस्य विकासः कृतः यद्यपि एतेषां संविष्टीनां प्रामाणिकीकरणं संशोधनं च अपेक्ष्यते।

रा.अ.मि. इत्यस्य आरम्भः 2008 तमे वर्षे जून मासे अभूत् तदैव अनुकृतिरित्यस्य विलयः रा.अ.मि. इत्यस्मिन् कारितः। अनुवाद-ग्रन्थ-सूची-निर्माणस्य कार्यं तु रा.अ.मि. इत्यत्रापि प्रावर्तत। अस्याः परियोजनायाः नवीनरीत्या पुनर्जागरणस्य आरम्भः 2011 तमे वर्षे अभूत्।योजनायाः रूपरेखा निर्मिता विविधाभ्यः स्रोतोभ्यः सूचनाः संकलिताः। सूचनानाम् अनवरुद्धं प्रवाहं विनिश्चेतुं विभिन्नैः विश्वविद्यालयैः प्रकाशनगृहैः पुस्तकालयैः अनुवादाभिकरणैः साहित्यिकानां समाजैः संस्थानैश्च सम्पर्कः कृतः। अस्माभिः प्रायेण 70,000 शीर्षकाणां विषये सूचनाः संकलिताः यासां अङ्कीकरणं निःस्यन्दीकरणं च अपेक्षितं विद्यते। अस्यां विधौ गुजरात प्रान्ते बडौदानगरे स्थितस्य भाषा-संसाधन-केन्द्रस्य प्रो. जी. एन. देवी महोदयः बहुवर्षान् अनूदितानां संस्करणानां सूचनाः संगृहाणाति। स्वकीया महार्घप्रस्तुतिः 20,000 संख्यकानां शीर्षकाणां सूचनात्मिका तेन दानरूपेण रा.अ.मि. इत्यस्मै प्रदत्तम्।

अनुवाद-ग्रन्थसूचीनां सूचनाभाण्डारस्य अंकीकरणार्थं भविष्ये च अस्याः रूपरेखां कर्तुं 2011 तमे वर्षे प्रो. देवीमहोदयेन रा.अ.मि. इत्यस्य परिवारेण च सह मैसूरनगरे एकदिवसीया कार्यशाला आयोजिता। अस्यां कार्यशालायां प्रो. देवीमहोदयेन प्रत्येकस्मै अनूदितसंकरणाय विशिष्टाभिज्ञानसंख्यां प्रयोक्तुं सम्मतिं चकार। अस्य सूचनाभाण्डारस्य अभियान्त्रिकं पक्षं ज्ञातुं 2011 तमे वर्षे बडौदानगरे एकस्याः अपरायाः कार्यशालायाः आयोजनं कृतम्।अनूदितानां संस्करणानां स्रोतपाठ्यानां च स्फुटज्ञानार्थं एकस्य उदाहरणस्य अभिकल्पनं कृतमस्ति। रा.अ.मि. इति अतोsपि परिष्कृतं कर्तुं प्रयासशीलः अस्ति। सम्प्रति अन्तर्जालपटले 25 भाषासु 20,000 शीर्षकाणां समावेशः वर्तते।