उद्घोषणाः

द्विसाप्ताहिकःविशेषप्रशिक्षणोपक्रमः

Application form(अवापनंपूरणं च)
 
अनुवादकानां कौशलवर्धनम् इति अस्ति एन्. टी. एम्. इत्यस्य मुख्यावधानेषु एकः विषयः | इयं लक्ष्यार्थसंविधा अनुवादकान् विशेषप्रशिक्षणोपक्रमस्य आभिमुख्यप्रशिक्षणोपक्रमस्य च रूपेण प्रशिक्षयति| अनुवादनवृत्तिधारकेभ्यः शैक्षणिकं साहाय्यमपि यच्छति| प्रस्तावपत्रेषु पदविकाभ्यसनक्रमेषु (Certificate and Diploma Courses) च प्रयत्नाः क्रियन्ते|

द्विसाप्ताहिकः विशेषप्रषिक्षणोपक्रमः

कः परिचरेदिमम् उपक्रमम्? अभिरुच्यर्थम् अनुवदताम् अनुवादकरूपेण च विवृत्सतां जनानां कृते वर्ततेऽयम् उपक्रमः ⃓ नैपुण्यं विवर्धयितुं ज्ञानं च वितानयितुम् इच्छताम् अनुवदनाभ्यासकच्छात्राणां कुशलानुवादकानां च कृतेऽपि उपक्रमोऽयं वर्तते ⃓सहभागिनः प्रायः भवन्ति - (अ)विविधेषु महाविद्यालयेषु विविधासु संस्थासु च पञ्जीकृताः नववृत्तिमापन्नाः कर्मकराः छात्राश्च (आ) शासनमण्डलेषु निम्नशासनमण्डलेषु च कार्यं कुर्वन्तः अधिकारिणः (इ) सी.एस्.टि.टि. इत्यस्य कृतिभिः संबद्धजनाः इत्यादयः ⃓

कुत्र? आभिमुख्यप्रशिक्षणोपक्रमः भविष्यति, National Translation Mission, Central Institute of Indian Languages, Mysuru इत्यत्र ⃓ उपक्रमाः आयोजकसंस्थानां समन्वयस्थानेषु अन्यस्थलेष्वपि भवितुमर्हन्ति ⃓

 
शुल्कम् :अस्य शुल्कं नास्ति ⃓परन्तु उपक्रमस्य आदौ सहभागिनः पञ्चशतं (₹५००/-) रूप्यकाणि न्यासरूपेण स्थापयेयुः ⃓धनमिदं Translation Today इत्यस्य एकवार्षिकेण परिचिह्नाङ्कनेन समञ्जनार्हं वर्तते ⃓

इच्छन्तः जनाः पूरितं हस्ताक्षरितं च आवेदनपत्रं www.ciil.org / www.ntm.org.in (उद्घोषणानाम् अन्तर्निर्देशे अवापानीयम्) प्रासङ्गिकपरिपत्रैः प्रतिज्ञापत्रैश्च सह समुदितस्थलं प्रेषयेयुः -
  The Project Director,
National Translation Mission,
Central Institute of Indian Languages,
Manasagangotri, Hunsur Road,
Mysore, Karnataka 570006.

प्रशिक्षकाः के? क्षेत्रस्यास्य बहवः विद्वांसः सन्ति एन्. टी. एम्. इत्यनेन सह ⃓केचन प्रशिक्षकाः एन्. टी. एम्., सी. आय्. आय्. एल्. इत्यत्र अन्तस्थसंसाधकरूपेण कार्यरताः, अन्यसंस्थाभिरपि संलग्नाः ⃓ सूचना -: आवेदनानि सम्पूर्णवर्षं यावत् स्वीक्रियन्ते ⃓आवेदनपत्रस्य आवरणं वामशीर्षे ‘एन्. टी. एम्. अनुवादप्रशिक्षणोपक्रमस्य आवेदनम्' इत्यक्षरैः परिचिह्नितं भवेत् ⃓ये वृत्तिरताः नियतकार्यबद्धाः वा ते तेषाम् आवेदनपत्रं वृत्तिदातुः संस्थाप्रमुखस्य वा माध्यमेन प्रेषयेयुः ⃓चयितानां सहभागिनां नामानि सी. आय्. आय्. एल्., एन्. टी. एम्. इत्यनयोः सङ्केतस्थले प्रकाशितारः ⃓

सम्पर्कार्थम् : शङ्काः कृपया अत्र प्रेषयन्तु :- ntmtrainingprog2016[at]gmail[dot]com