साफ्टवेयर इति

नवीनमभियन्त्रणं त्वरितं बृहत्परिमाणं चानुवादकार्यमपेक्षाकृतमल्पार्घं कर्तुमवसरं ददाति। विविधानि संगठनानि संगणकयन्त्रसाहाय्येन अनुवादं कर्तुं साफ्टवेयर इत्यस्य विकासकार्ये संलग्नानि सन्ति।

भारतीयसर्वकारेण निधिबद्धैः सी-डैक, टी.डी.आइ.एल. आइ.आइ.टी. इत्येताभिः संस्थाभिः कृतानां प्रयासानां पुनरावृत्तिं रा. अ.मि. इति न विधास्यति। तथापि यान्त्रिकानुवादे प्रयुक्तां प्रौद्योगिकीं संवर्द्धयन् कतिपयेषु क्षेत्रेषु मानवसंसाधनं विशदीकृत्य प्रशिक्षणं विधाय संयुक्तेषु उपक्रमेषु सहयोगं प्रदातुं शक्यते।

रा. अ.मि. इत्यनेन इन-लैन इति नाम्ना अनुप्रयोगस्य विकासं करोति यः आङ्ग्लभाषायाः कन्नडभाषायां यान्त्रिकानुवादः अस्ति। अस्य मुख्यं लक्ष्यं आङ्ग्लभाषायाः वाक्यान् कन्नडभाषायामनुवादः अस्ति।
  » ऑनलाइन पर्यायकोषः, द्विभाषिककोषः, अनुवादस्मृति-साफ्टवेयर इत्येतेषां मूलभूतसौविध्यानां विकासः कार्यः येषां त्वरितोनुप्रयोगः प्रभावोत्पादके कौशलपूर्णे चानुवादे आवश्यकः।
  » ई-शब्दकोषाः, शब्दजालः, भाषिकविश्लेषणसंश्लेषणयोः कृते उपकरणं, शब्दानुक्रमणिका, आवृत्तिविशेलषक इत्यादीनां शाब्दिकसंसाधनानां विकासः यान्त्रिकानुवादस्य घटकाः भवन्ति। एतेषां निर्माणं संरक्षणञ्च केनचिदपि एकेन संगठनेन कर्तुं न शक्यते। अस्मै बहूनां संस्थानानां चिरकालपर्यन्तस्य सहयोगस्य आवश्यकता भवेत्। रा.अ.मि. एतेषां कार्याणां कृते मञ्चस्थानं प्रदातुं शक्नोति यत्र सततं विमर्शः ऑनलाइन परिचर्चा इत्यादयः भवितुमर्हति।
  » रा.अ.मि. इत्यनेन चयनितानां पाठ्यानां सूची अनुवादश्च यथासम्भवं सर्वाधिकारे स्वायत्तीकृते डिजिटल इति स्वरूपे समुपलब्धौ प्रयासः करणीयः। रा. अ. मि. इत्यनेन डिजिटल सामग्री इति स्तरीये मानकस्वरूपे एक्स.एम.एल. टैग इति संयोजने डी.टी.एस. इति स्वरूपे च संरक्षिता स्यादिति।
  » अधुना अन्ताराष्ट्रियस्तरे संरेखनं सटिप्पणं च विधाय समानान्तरपाठसंग्रहाणां परिवर्द्धनं क्रियते। यान्त्रिकानुवादस्य कृते एवंविधः विश्लेषितः पाठसंग्रहः यान्त्रिक-शिक्षणरीत्या संसाधयितुं शक्यते। एनं विशालसूचनाभाण्डारं निर्माणप्रयासं च पूरयितुं अपेक्षितः प्रारम्भिकः निधिनिवेशः व्यावहारिकतया एकेन संगठनेन कर्तुं न पार्यते। यद्यपि रा.अ.मि. तान् प्रयासान् उत्प्रेरयितुं यथोचिता सहायता कर्तुं शक्नोति।