मूलम्

राष्ट्रिय अनुवाद मिशन (रा. अ. मि.) इत्यस्य विचारः मूलतया भारतस्य प्रधानमन्त्रिणा डा. मनमोहन सिंह महोदयेन प्रदत्तः। राष्ट्रिय ज्ञान आयोग (National Knowledge Commission (NKC)) इत्यस्य प्रथमे सम्मेलने तेनोक्तं यज्ज्ञानस्य कतिपयेषु महत्सु क्षेत्रेषु पदानि निक्षेप्तुं निरन्तरं ज्ञानार्जने शिक्षायां च जनानां संगमनं व्यापकं सशक्तं च विधातुं अनूदितानां सामग्रीणामत्यावश्यकता अस्ति। श्री सैम पित्रोदा महोदयस्य अध्यक्षतायाम् आयोगेन अभिमतानि संकलितानि तथा च भारते शिक्षणदृष्ट्या अनुवादकार्यस्य प्रोत्साहनार्थमभ्युदयाय च पृथक् संस्थायाः मिशन इत्यस्य वा यथाशीघ्रं स्थापनायाः आवश्यकता अनुभूता।

यद्यपि सत्यमेतत् यत् भारते अनुवादस्य एका परम्परा अस्ति तथापि देशे अनुवादकार्येषु विषयस्य भाषायाश्च गुणवत्तायां, वितरणे, उपलब्धतायाञ्च वैषम्यात् अस्मिन् महत्त्वपूर्णक्षेत्रे सर्जनात्मिकायाः सार्वजनिकसहभागितायाश्च आवश्यकता मुख्यतया अनुभूता। अनुवादस्य गतिविधयः परोक्षं प्रत्यक्षं वा आजीविकायाः अवसरं प्रदास्यन्ति येन शिक्षिताः अनापन्नजीविकाः स्वकृते लाभप्रदां जीविकामन्वेषयन्तः अनेन माध्यमेन जनसेवायाः अवसराणि प्राप्स्यन्ति।

अनुवादमाध्यमेन मानवसंसाधनविकासमाध्यमेन च जागरूकस्य ज्ञानसम्पन्नसमाजस्य निर्माणस्यावधारणा राष्ट्रिय ज्ञान आयोगं डा. जयती घोष महोदयस्य प्रामुख्ये एकं कर्तृसमूहं संघटयितुं प्रेरितवान् येन अनुवाद-कार्यस्य गतिविधौ प्रकाशने प्रसारणे च संलग्नानां जनानामभिकरणानाञ्च समायोजनं भवेत्। अस्मिन् कार्यकारिणां समूहे सम्बद्धानां सर्वकारीयार्द्धसर्वकारीयसंस्थानां प्रतिनिधयः, शिक्षकाः, भाषाविदः, अनुवादकाः, शिक्षाविदः, प्रकाशकाः, भारते अनुवादविधौ संलग्नाश्चान्ये सम्मिलिताः सन्ति। ख्रीष्टाब्दीये 2006 तमे वर्षे फरवरी मासे अयं समूहः यदा दिल्लीनगरे आयोजिते सम्मेलने एकत्रीभूताः तदा तात्कालिकस्य भारतीय भाषा संस्थान इत्यस्य निदेशकेन प्रो. उदय नारायण सिंह महोदयेन परियोजनायाः रूपरेखा निर्मिता।