प्रकाशनानि

अनुवादप्रक्रियां सुद्रढयितुं केचन नियमाः रा. अ. मि. इत्यनेन पाल्यन्ते। ते सन्ति- अनुवादार्थं पाठ्यानां चयनम्, चितानां पुस्तकानां बौद्धिकसंपदाधिकारस्य ग्रहणम्, भारतीयक्षेत्रीयभाषाप्रकाशकै सम्पर्कः भारतीयभाषासु अनूद्यमानपुस्तकानां सम्पादकीयसहायतावृन्दानां मार्गदर्शने मूल्ङाकनञ्च। अनुवादस्य मूल्याङ्कनं द्वितलीयं भवति प्रारम्भिकं मूल्याङ्कनार्थं रा. अ.मि. इत्यत्र अनुवादकाः अनूदितस्य आद्यानि दशपृष्ठानि समर्पयितुं अपेक्ष्यन्ते। अन्तिमं मूल्याङ्कनं तु अनूदितपाठस्य अशेषायां पाण्डुलिप्यां समर्पितायां भवति। एवं चरणबद्धया मूल्याङ्कनपद्धत्या अनुवादस्य उत्कृष्टतामाधातुं सहायता भवति।