के सन्ति सम्बद्धाः? कार्यकारिण्यः समितयः

भारतीयभाषासंस्थानम् – स्थायिपरिसन्धिः

सम्प्रति भारतीयभाषासंस्थानम् रा.अ.मि. इत्यस्य नोडल एजेंसी इति प्रमुखः सौविध्याधायकः च अस्ति। मिशन इत्यस्य संचालनं भारतीयभाषासंस्थानस्य मैसूरनगरस्थितात् परिसराद् भवति। भारतीयभाषासंस्थानस्य निदेशकः राष्ट्रिय अनुवाद मिशन इत्यस्य नोडल अधिकारी भवति। इदमपेक्ष्यते यत् रा. अ. मिशन इति सक्षमस्य प्राधिकरणस्य अनिवार्यमनुमोदनं लब्ध्वा अन्ततः पृथक् स्वायत्तो निकायः भविष्यति। रा. अ.मि. इति कार्यं करोति- साहित्य अकादमी, नेशनल बुक ट्रस्ट, वैज्ञानिक तथा तकनीकी शब्दावली आयोग, सी. डैक. इत्यादीनां राष्ट्रियसंस्थानानां समन्वयेन।

परियोजना परामर्शदात्री समितिः रा. अ. मि. इत्यस्य महत्त्वपूर्णनिर्णायिका समितिः भवति। अस्यां समितौ पञ्चविंशति सदस्याः सन्ति, यथा- अनुवादविषयकाध्यापने अनुवादकार्ये च संलग्नाः विशेषज्ञाः, लेखकाः, साहित्यिकाः, अकादमी इत्येतासां अध्यक्षाः, शिक्षाविदः, विश्वविद्यालयानां कुलपतयः, ग्रन्थविक्रेतारः, प्रकाशकनिकायसदस्याः, भारतसर्वकारीयसूचना-प्रौद्योगिकीविभागस्य प्रतिनिधयः, औद्योगिकशिक्षासंस्थानानां आइ.आइ.टी. इत्यादीनां अध्यापकाः सम्मिलिताः सन्ति।

परियोजना-परामर्शदात्रीं समितिं विहाय अन्याः चतस्र उपसमितयः अपि सन्ति याः मिशन इत्येनं कार्येषु मार्गदर्शनं साहाय्यञ्च कुर्वन्ति।
i. मूल्यानुपात-निर्धारण उपसमिति
ii. प्रकाशनाधिकारविषयिणी विधिकविषयिणी च उपसमितिः।
iii. ज्ञानपाठ्यनिर्णायिका उपसमितिः
iv. अनुदान-साहाय्यनिर्णायिका उपसमितिः
 
परियोजना-परामर्शदात्री समितिः
नोडल अधिकारी – निदेशकः, भारतीयभाषासंस्थानम्
परियोजना-निदेशकः
रा. अ.मि. इत्यस्मै स्वीकृतानि पदानि- 65
सहायकाः कर्मचारिणः