ज्ञान-पाठ्यानामभिज्ञानम्

अनूद्यमानानां ज्ञान-पाठ्यानामभिज्ञानं सूची च भारतीयविश्वविद्यालयानां सूचनाभाण्डारात् प्रतिष्ठितविश्वविद्यालयानां पाठ्यक्रमेषु सर्वाधिकतया निर्धारितेभ्यः पुस्तकेभ्यः लब्धा। इयं च सूची विशेषज्ञैः परीक्षिता। सम्बद्धविषयाणां शिक्षकेभ्यः छात्रेभ्यः अन्येभ्यश्च विशेषज्ञेभ्यः सम्पर्कमाध्यमेन भारतीयभाषासु एतेषां पुस्तकानां आवश्यकतामवगम्यते। अधिकाधिकाः छात्राः अध्यापकाश्च अनेन लाभान्विताः भवेयुरिति एतेषां पाठ्यपुस्तकानां चयने मूलाधारः। पाठ्यपुस्तकेभ्यः निर्मिता उपसमितिः रा.अ.मि. इत्यस्य परियोजना परामर्शदात्रीसमितिः च अस्याः निर्देशिकायाः अन्ततः पुस्तकानां चयनं करोति।

आरम्भे रा. अ.मि. इत्यनेन एकविंशतिविषयाणां विशेषज्ञैः संस्तुतानि पुस्तकानि अनुवादार्थं संकलितानि। सम्प्रति 105 पुस्तकानि अनुवादे सन्नद्धानि सन्ति।