अनुवादकानां कृते शैक्षणिक कार्यक्रमाः

रा. अ.मि. इत्यनेन सञ्चालितस्य अनुवादप्रशिक्षणकार्यक्रमस्य आद्यं लक्ष्यं पाठ्यपुस्तकानां अनुवादार्थं प्रशिक्षणप्रदानमस्ति। अयं तेभ्योपि शैक्षणिकसहायतां प्रददाति ये अनुवादकार्यं स्वोद्यमत्वेन आधातुमिच्छन्ति। इदं प्रशिक्षणं भारते अनुवादस्य परम्परा इतिहासेन च अवगतं कारयति। भारतीयभाषासु पाठ्यपुस्तकानामनुवादमधिकृत्य समस्याः, स्पर्धाह्वानानि, शब्दकोषान् शब्दावलीं, पर्यायकोषान् चेत्यादीनामनुप्रयोगमधिकृत्य ज्ञानं प्रददाति। अस्य लक्ष्यं प्रतिभाशालिनां कुशलानां व्यावसायिकानां अनुवादकानां निर्माणमस्ति। अमुं लक्ष्यं प्राप्तुं रा.अ.मि. इति कार्यशालानां अभिविन्यासकार्यक्रमाणां संगोष्ठीनां च आयोजनं करोति। ट्रांसलेशन टुडे (रा.अ.मि. इत्यस्य द्वैभाषिकी अर्द्धवार्षिकी पत्रिका), अनुवादकानां कृते हस्तपुस्तिका, रा.अ.मि. इत्यस्य दृश्यश्रव्यनिर्मातृभिः निर्मिताः दृश्य-श्रव्य-सामग्र्यः, रा.अ.मि. इत्यस्य पाठ्यक्रमसामग्र्यः अनुवादकानां प्रशिक्षणे महदुपकारकानि भविष्यन्ति।